भ्रमराम्बाष्टकम्

 

चाञ्चल्यारुणलॊचनाञ्चितकृपां चन्द्रार्धचूडामणिं

चारुस्मॆरमुखां चराचरजगत्संरक्षिणीं तत्पदाम्।

चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरंजितां

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ॥१॥

 

कस्तूरीतिलकाञ्चितॆंदुविलसत्प्रॊद्बासिफालस्थलीं

कर्पूरद्रवमिश्रचूर्णखदिरामॊदॊल्लसद्वीटिकाम्।

लॊलापाङ्गतरंगितैरतिकृपासारैर्नतानन्दिनीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ॥२॥

 

राजन्मत्तमरालमन्दगमनां राजीवपत्रॆक्षणां

राजीवप्रभवादिदॆवमकुटै राजत्पदाम्भॊरुहाम्।

राजीवायतपत्रमण्डितकुचां राजाधिराजॆश्वरीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ॥३॥

 

षट्तारांगणदीपिकां शिवसतीं षड्वैरिवर्गापहां

षट्चक्रान्तरस्थितां वरसुधां षड्यॊगिनीवॆष्टिताम्।

षट्चक्रांतिचितपादुकांचितपदां षड्भावगां षॊडशीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ॥४॥

 

श्रीनाथादृतपालितत्रिभुवनां श्रीचक्रसंचारिणीं

गानासक्तमनॊजयौवनलसद्गंधर्वकन्यादृताम्।

दीनानामतिवॆलभाग्यजननीं दिव्याम्बरालङ्कृतां

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ॥५॥

 

लावण्याधिकभूषिताङ्गलतिकां लाक्षालसद्रागिणीं

सॆवायातसमस्तदॆववनितासीमन्तभूषान्विताम्।

भावॊल्लासवशीकृतप्रियतमां भण्डासुरच्छॆदिनीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ॥६॥

 

धन्यां सॊमविभावनीयचरितां धाराधरश्यामलां

मुन्याराधनमॊदिनीं सुमनसां मुक्तिप्रधानव्रताम्।

कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ॥७॥

 

कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां

कृष्टॊत्कृष्टसुकृष्टकर्मदहनां कामॆश्वरीं कामिनीं।

कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ॥८॥

 

गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां

गम्भीरां गजगामिनीं गिरिसुतां गन्धाक्षतालङ्कृताम्।

गंगागौतमगर्गसन्नुतपदां गां गौतमीं गॊमतीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ॥९॥

 

जय जय शङ्कर हर हर शङ्कर