नवरत्नमालिका

 

हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं

कारणॆशवरमौळिकोटिपरिकल्प्यमानपदपीठिकाम्।

कालकालफणिपाशबाणधनुरङ्कुशामरुणमॆखलां

फालभूतिलकलोचनां मनसि भावयामि परदॆवताम्॥१॥

 

गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं

सांध्यरागमधुराधराभरणसुंदराननशुचिस्मिताम्।

मन्थरायतविलोचनाममलबालचन्द्रकृतशॆखरीं

इन्दिरारमणसोदरीं मनसि भावयामि परदॆवताम्॥२॥

 

 

स्मॆरचारुमुखमण्डलां विमलगण्डलंबिमणिमण्डलां

हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम्।

वीरगर्वहरनूपुरां विविधकारणॆशवरपीठिकां

मारवैरिसहचारिणीं मनसि भावयामि परदॆवताम्॥३॥

 

 

भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां

वारिराशिमणिमॆखलावलयवह्निमण्डलशरीरिणीम्।

वारि सारवहकुण्डलां गगनशॆखरीं च परमात्मिकां

चारु चंद्ररविलोचनां मनसि भावयामि परदॆवताम्॥४॥

 

 

कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस-

त्पुण्डरीकमुखभॆदिनीं तरुणचण्डभानुतडिदुज्ज्वलाम्।

मण्डलॆन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं

मण्डलान्तमणिदीपिकां मनसि भावयामि परदॆवताम्॥५॥

 

 

वारणाननमयूरवाहमुखदाहवारणपयोधरां

चारणादिसुरसुन्दरीचिकुरशॆखरीकृतपदाम्बुजाम्।

कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां

वारणान्तमुखपारणां मनसि भावयामि परदॆवताम्॥६॥

 

पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां

पद्मरागमणिमॆखलावलयनीविशोभितनितम्बिनीम्।

पद्मसम्भवसदाशिवान्तमयपञ्चरत्नपदपीठिकां

पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदॆवताम्॥७॥

 

 

आगमप्रणवपीठिकाममलवर्णमंगळशरीरिणीं

आगमावयवशोभिनीमखिलवॆदसारकृतशॆखरीम्।

मूलमन्त्रमुखमण्डलां मुदितनादमिन्दुनवयौवनां

मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदॆवताम्॥८॥

 

 

कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गळविराजिनीं

चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम्।

वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां

कालिकामखिलनायिकां मनसि भावयामि परदॆवताम्॥९॥

 

 

नित्यमॆव नियमॆन जल्पतां

भुक्तिमुक्तिफलदामभीष्टदाम्।

शंकरॆण रचितां सदा जपॆ-

न्नामरत्ननवरत्नमालिकाम्॥१०॥

 

                        जय जय शङ्कर हर हर शङ्कर